top of page
देवीस्तवनम् (मनुकृतं देवीभागवतमहापुराणान्तर्गतम्) | Devi stavanam manu kritam
देवीस्तवनम् मनुकृतम्
मनुरुवाच -
जय देवि विशालाक्षि जय सर्वान्तरस्थिते ॥ १॥
मान्ये पूज्ये जगद्धात्रि सर्वमङ्गलमङ्गले ।
त्वत्कटाक्षावलोकेन पद्मभूः सृजते जगत् ॥ २॥
वैकुण्ठः पालयत्येव हरः संहरते क्षणात् ।
शचीपतिस्त्रिलोक्याश्च शासको भवदाज्ञया ॥ ३॥
प्राणिनः शिक्षयत्येव दण्डेन च परेतराट् ।
यादसामधिपः पाशी पालनं मादृशामपि ॥ ४॥
कुरुते स कुबेरोऽपि निधीनां पतिरव्ययः ।
हुतभुङ्नैरृतो वायुरीशानः शेष एव च ॥ ५॥
त्वदंशसम्भवा एव…bottom of page
